मीमांसान्याययोः शब्दविषये विवादः -१-

पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६–१।१।११) प्रतिवदिताश्च ।
१।१।६ विषयं प्रतिजानाति “कर्म एके तत्र दर्शनात्” इति । एके − नैयायिकाः मन्यन्ते, शब्दः कर्मैवास्ति, प्रयत्नानन्तरदर्शनाद् इति यावत् ।
१।१।७ सूत्रे द्वितीयो हेतुरुक्तः “अस्थानात्” इति । शब्दः कर्म, यतः शीघ्रं विनश्यति, विनष्टश्च न कुत्रचिदुपलभ्यते । सन्ति तु अर्थाः, ये सन्तोऽपि नोपलभ्यन्ते, मेरुवत् इति चेन्न । मेर्वादयः व्यवधानेभ्य एव नोपलभ्यन्ते । व्यवधानं विना सर्वमुपलभ्यमिति नैयायिकः ।
१।१।८ सूत्रेऽपि हेतुरुच्यते “करोतिशब्दात्” इति । लोके “सः शब्दं करोति” इति यावत् । किमर्थं लोकव्यवहारं प्रमाणमिति चेत्, उच्यते − यथा लोके वदन्ति तथा चिन्तयन्ति, न चानुपलब्धं किंचिद्वर्तते इति सूत्रे १।१।७ उक्तम् । तस्माद् यदुपलब्धं तच्चिन्तितं, यच्चिन्तितं च तल्लोकव्यवहारे व्यक्तमिति लोकव्यवहारः प्रमाणमिति नैयायिकः । तत्र तु −संस्कृता वागपि संकेतिका इति नैयायिकाः । अत एव संभवति यत् केवलं संस्कृतायां भाषायां “शब्दं करोति” इति व्यवहारोऽस्ति । वस्तुतश्च हङ्गरीभाषायां “शब्दं प्रमुञ्चति” इत्युच्यते, न तु “करोति” ।
१।१।९ सूत्रे यौगपद्यं हेतुत्वेनोक्तम् “सत्त्वान्तरे च यौगपद्यात्” इति । नानादेशेषु “शब्द”शब्दादयः यौगपद्येन श्रुताः । यद्येक एव शब्दो भवेत्, तर्हि एतदसम्भवम् । यथाहि ममैकः पुत्रः केवलं पाटलिपुत्रे दृश्यते, न तु यौगपद्येन पाटलिपुत्रे वारणसीपूरे च ।

किम् मन्यन्ते तत्रभवन्तः, कः कः हेतुः युक्ततमः?

शब्दस्वरूप एतत् “पोस्ट्” अपि पठितव्यम्

वर्तमाणं पोस्ट् मम ब्लोग् अपि प्रदर्शितम्

About elisa freschi

My long-term program is to make "Indian Philosophy" part of "Philosophy". You can follow me also on my personal blog: elisafreschi.com, on Academia, on Amazon, etc.

2 thoughts on “मीमांसान्याययोः शब्दविषये विवादः -१-

  1. शब्दस्य कर्मत्वं अथवा कार्यत्वं सिषाधयिषुः पूर्वपक्षी, शब्दस्तु बहुरूपः, अतात्र पृष्टव्यं कः शब्द इति । शब्दस्य तावत् क्रियात्मकत्वं दृष्टमेव यस्माच्छब्दकर्मणां (speech acts) व्यवहारोऽस्ति । एतेषां शब्दकर्मणां देशकालादिनियतत्वं, उच्चारणाभिधानक्रियासमानकर्तृकत्वम्, फलवत्त्वं च । शब्दस्य तु रूपान्तरं अस्त्येव यदपेक्षया सिद्धः स्थिरः देशकालाद्यनियतोऽकर्तकः शब्दः । यद्वा, शब्दः कर्मेति चेत्, वयं ब्रूमः कुतः कर्मत्वं? कः कर्ता? केण करणेन? किं नाम कार्यं? किं वर्णा आहोस्वित्पदानि आहोस्वित् पदार्थाः, अथवा अर्थप्रतीतिरिति ।

    किं च पूर्वपक्षे ये हेतवः प्रतिपादिताः तेभ्यः न्यायशास्त्रसिद्धान्तभूतं शब्दार्थसंप्रत्ययस्य सामयिकत्वं सिध्येदिति चिन्तनीयम् ।

    • वीरमहोदय! शब्द इति ध्वनिः, ध्वनिश्च कृतकः − इति नैयायिकः पूर्वपक्षी । अतः तेनानुसारेण शब्दः कार्यं न तु क्रिया । कर्ता वक्ता एव, जिह्वादीनि करणानि । मीमांसकानां तु ध्वनिः शब्दमभिव्यनक्ति, न तु ध्वनिरेव शब्दः । अतः, भवतः पक्षः युक्तः, शब्दशब्दस्यार्थाः बहवः सन्ति । भवत अन्तिमवाक्यविषये, नैयायिकाः समयवादिनः, एतच्च शब्दः ध्वनित्वेन कल्पितः इति पक्षमनुसरति । किन्तु, किमर्थं तैरेव नैयायिकैः संस्कृतवाग्विशेषाः हेतुत्वेनोपयुक्ताः ?

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>