पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६–१।१।११) प्रतिवदिताश्च ।
१।१।६ विषयं प्रतिजानाति “कर्म एके तत्र दर्शनात्” इति । एके − नैयायिकाः मन्यन्ते, शब्दः कर्मैवास्ति, प्रयत्नानन्तरदर्शनाद् इति यावत् ।
१।१।७ सूत्रे द्वितीयो हेतुरुक्तः “अस्थानात्” इति । शब्दः कर्म, यतः शीघ्रं विनश्यति, विनष्टश्च न कुत्रचिदुपलभ्यते । सन्ति तु अर्थाः, ये सन्तोऽपि नोपलभ्यन्ते, मेरुवत् इति चेन्न । मेर्वादयः व्यवधानेभ्य एव नोपलभ्यन्ते । व्यवधानं विना सर्वमुपलभ्यमिति नैयायिकः ।
१।१।८ सूत्रेऽपि हेतुरुच्यते “करोतिशब्दात्” इति । लोके “सः शब्दं करोति” इति यावत् । किमर्थं लोकव्यवहारं प्रमाणमिति चेत्, उच्यते − यथा लोके वदन्ति तथा चिन्तयन्ति, न चानुपलब्धं किंचिद्वर्तते इति सूत्रे १।१।७ उक्तम् । तस्माद् यदुपलब्धं तच्चिन्तितं, यच्चिन्तितं च तल्लोकव्यवहारे व्यक्तमिति लोकव्यवहारः प्रमाणमिति नैयायिकः । तत्र तु −संस्कृता वागपि संकेतिका इति नैयायिकाः । अत एव संभवति यत् केवलं संस्कृतायां भाषायां “शब्दं करोति” इति व्यवहारोऽस्ति । वस्तुतश्च हङ्गरीभाषायां “शब्दं प्रमुञ्चति” इत्युच्यते, न तु “करोति” ।
१।१।९ सूत्रे यौगपद्यं हेतुत्वेनोक्तम् “सत्त्वान्तरे च यौगपद्यात्” इति । नानादेशेषु “शब्द”शब्दादयः यौगपद्येन श्रुताः । यद्येक एव शब्दो भवेत्, तर्हि एतदसम्भवम् । यथाहि ममैकः पुत्रः केवलं पाटलिपुत्रे दृश्यते, न तु यौगपद्येन पाटलिपुत्रे वारणसीपूरे च ।
किम् मन्यन्ते तत्रभवन्तः, कः कः हेतुः युक्ततमः?
शब्दस्वरूप एतत् “पोस्ट्” अपि पठितव्यम्
वर्तमाणं पोस्ट् मम ब्लोग् अपि प्रदर्शितम्
शब्दस्य कर्मत्वं अथवा कार्यत्वं सिषाधयिषुः पूर्वपक्षी, शब्दस्तु बहुरूपः, अतात्र पृष्टव्यं कः शब्द इति । शब्दस्य तावत् क्रियात्मकत्वं दृष्टमेव यस्माच्छब्दकर्मणां (speech acts) व्यवहारोऽस्ति । एतेषां शब्दकर्मणां देशकालादिनियतत्वं, उच्चारणाभिधानक्रियासमानकर्तृकत्वम्, फलवत्त्वं च । शब्दस्य तु रूपान्तरं अस्त्येव यदपेक्षया सिद्धः स्थिरः देशकालाद्यनियतोऽकर्तकः शब्दः । यद्वा, शब्दः कर्मेति चेत्, वयं ब्रूमः कुतः कर्मत्वं? कः कर्ता? केण करणेन? किं नाम कार्यं? किं वर्णा आहोस्वित्पदानि आहोस्वित् पदार्थाः, अथवा अर्थप्रतीतिरिति ।
किं च पूर्वपक्षे ये हेतवः प्रतिपादिताः तेभ्यः न्यायशास्त्रसिद्धान्तभूतं शब्दार्थसंप्रत्ययस्य सामयिकत्वं सिध्येदिति चिन्तनीयम् ।
वीरमहोदय! शब्द इति ध्वनिः, ध्वनिश्च कृतकः − इति नैयायिकः पूर्वपक्षी । अतः तेनानुसारेण शब्दः कार्यं न तु क्रिया । कर्ता वक्ता एव, जिह्वादीनि करणानि । मीमांसकानां तु ध्वनिः शब्दमभिव्यनक्ति, न तु ध्वनिरेव शब्दः । अतः, भवतः पक्षः युक्तः, शब्दशब्दस्यार्थाः बहवः सन्ति । भवत अन्तिमवाक्यविषये, नैयायिकाः समयवादिनः, एतच्च शब्दः ध्वनित्वेन कल्पितः इति पक्षमनुसरति । किन्तु, किमर्थं तैरेव नैयायिकैः संस्कृतवाग्विशेषाः हेतुत्वेनोपयुक्ताः ?